अच्युतस्याष्टकं

रचन: आदि शङ्कराचार्य

अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिका वल्लभं
जानकीनायकं रामचन्द्रं भजे ॥ 1 ॥

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिका राधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे ॥ 2 ॥

विष्णवे जिष्णवे शङ्कने चक्रिणे
रुक्मिणी राहिणे जानकी जानये ।
वल्लवी वल्लभायार्चिता यात्मने
कंस विध्वंसिने वंशिने ते नमः ॥ 3 ॥

कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥ 4 ॥

राक्षस क्षोभितः सीतया शोभितो
दण्डकारण्यभू पुण्यताकारणः ।
लक्ष्मणोनान्वितो वानरैः सेवितो
अगस्त्य सम्पूजितो राघवः पातु माम् ॥ 5 ॥

धेनुकारिष्टका‌உनिष्टिकृद्-द्वेषिहा
केशिहा कंसहृद्-वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो
बालहोपालकः पातु मां सर्वदा ॥ 6 ॥

बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं
प्रावृडम्-भोदवत्-प्रोल्लसद्-विग्रहम् ।
वान्यया मालया शोभितोरः स्थलं
लोहिताङ्-घिद्वयं वारिजाक्षं भजे ॥ 7 ॥

कुञ्चितैः कुन्तलै भ्राजमानाननं
रत्नमौलिं लसत्-कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कण प्रोज्ज्वलं
किङ्किणी मञ्जुलं श्यामलं तं भजे ॥ 8 ॥

अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृ विश्वम्भरः
तस्य वश्यो हरि र्जायते सत्वरम् ॥